|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.146. अध्यायः 146
Mahabharata - Shanti Parva - Chapter Topics
कपोतस्य वह्निप्रवेशदर्शिना व्याधेन आत्मोपालम्भपूर्वकं स्वप्राणविमोक्षणायानशनादिना शरीरशोषणाध्यवसायः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-146-0x(5786)(70867)
ततः स लुब्धकः पश्यन्क्षुधयाऽपि परिप्लुतः।
कपोतमग्निपतितं वाक्यं पुनरुवाच ह॥ 12-146-1(70868)
किमीदृशं नृशंसेन मया कृतमबुद्धिना।
भविष्यति हि मे नित्यं पातकं भुवि जीवतः।
स विनिन्दंस्तथाऽऽत्मानं पुनः पुनरुवाच ह॥ 12-146-2(70869)
धिङ्भामस्तु सुदुर्बुद्धिं सदा निकृतिनिश्चयम्।
शुभं कर्म परित्यज्य सोऽहं शकुनिलुब्धकः॥ 12-146-3(70870)
नृशंसस्य ममाद्यायं प्रत्यादेशो न संशयः।
दत्तः स्वमांसं दहता कपोतेन महात्मना॥ 12-146-4(70871)
सोहं त्यक्ष्ये प्रियान्प्राणान्पुत्रान्दारान्विसृज्य च।
उपदिष्टो हि मे धर्मः कपोतेनात्र धर्मिणा॥ 12-146-5(70872)
अद्यप्रभुति देहं स्वं सर्वभोगैर्विवर्जितम्।
यथा स्वल्पं सरो ग्रीष्मे शोषयिष्याम्महं तथा॥ 12-146-6(70873)
क्षुत्पिपासातपसहः कृशो ध्रमनिसन्ततः।
उपवासैर्बहुविधैश्चरिष्ये पारलौकिकम्॥ 12-146-7(70874)
अहो देहप्रदानेन दर्शिताऽतिथिपूजना।
तस्माद्धर्मं चरिष्यामि धर्मो हि परमा गतिः॥ 12-146-8(70875)
दृष्टो धर्मो हि धर्मिष्ठे यादृशो विहगोत्तमे।
एवमुक्त्वा विनिश्चित्य रौद्रकर्मा स लुब्धकः॥ 12-146-9(70876)
महाप्रस्थानमाश्रित्य प्रययौ संशितव्रतः॥ 12-146-10(70877)
ततो यष्टिं शलाकां च धारकं पञ्जरं तथा।
तां च बद्धां कपोतीं स प्रमुच्य विससर्ज ह॥ ॥ 12-146-11(70878)
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि षट्चत्वारिंशदधिकशततमोऽध्यायः॥ 146॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-146-4 प्रत्यादेशः धिक्कारपूर्वक उपदेशः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|